ॐ भूर्भुवः स्वः।
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि
धियो यो नः प्रचोदयात् ॥1
आचमनम्
ॐ शन्नो देवीरभिष्टय
आपो भवन्तु पीतये।
शंयोरभि श्रवन्तु नः ॥2
इन्द्रियस्पर्श
ॐ वाक् वाक् ।
ॐ प्राणः प्राणः ।
ॐ चक्षुः चक्षुः ।
ॐ श्रोत्रं श्रोत्रं ।
ॐ नाभिः ।
ॐ हृदयँ ।
ॐ कण्ठः ।
ॐ शिरः ।
ॐ बाहुभ्यां यशोबलं ।
ॐ करतलकरपृष्ठे ॥
मार्जनम्
ॐ भूः पुनातु शिरसि ।
ॐ भुवः पुनातु नेत्रयोः ।
ॐ स्वः पुनातु कण्ठे ।
ॐ महः पुनातु हृदये ।
ॐ जनः पुनातु नाभ्यां ।
ॐ तपः पुनातु पादयोः ।
ॐ सत्यं पुनातु पुनः शिरसि।
ॐ खंब्रह्मा पुनातु सर्वत्र ॥
प्राणायामः
ॐ भूः । ॐ भुवः। ॐ स्वः ।
ॐ महः। ॐ जनः।
ॐ तपः । ॐ सत्यं ॥ 3
अघमर्षणम्
ॐ ऋतं च सत्यञ्चाभिद्धात्
तपसोध्यजायत् ततो रात्र्यजायत
ततः समुद्रो अर्णवः ॥4
समुद्रादर्णवादधि संवत्सरो अजायत।
अहोरात्राणि विदधद् विश्वस्य मिषतो वशी ॥5
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।
दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥6
आचमनम्
ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये।
शंयोरभि श्रवन्तु नः ॥
मनसा परिक्रमा
ॐ प्राची दिगग्निरधिपतिरसितो
रक्षितादित्या इषवः ।
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम
एभ्यो अस्तु।
योऽस्मान् द्वेष्टि यं वयं
द्विष्मस्तं वो जम्भे दध्मः॥7
ॐ दक्षिणा दिगिन्द्रोऽधिपतिस्तिरश्चिराजी
रक्षिता पितर इषवः ।
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम
एभ्यो अस्तु।
योऽस्मान् द्वेष्टि यं वयं
द्विष्मस्तं वो जम्भे दध्मः॥8
ॐ प्रतीची दिग्वरुणोऽधिपतिः
प्रिदाकूरक्षितान्नमिषवः।
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम
एभ्यो अस्तु।
योऽस्मान् द्वेष्टि यं वयं
द्विष्मस्तं वो जम्भे दध्मः॥9
ॐ उदीची दिक् सोमोऽधिपतिः
स्वाजोरक्षिताऽशनिरिषवः।
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम
एभ्यो अस्तु।
योऽस्मान् द्वेष्टि यं वयं
द्विष्मस्तं वो जम्भे दध्मः॥10
ॐ ध्रुवा दिग्विष्णुरधिपतिः
कल्माषग्रीवो रक्षिता वीरुध इषवः।
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम
एभ्यो अस्तु।
योऽस्मान् द्वेष्टि यं वयं
द्विष्मस्तं वो जम्भे दध्मः॥11
ॐ ऊर्ध्वा दिग्बृहस्पतिरधिपतिः
श्वित्रो रक्षिता वर्षमिषवः।
तेभ्यो नमोऽधिपतिभ्यो नमो
रक्षितृभ्यो नम इषुभ्यो नम
एभ्यो अस्तु।
योऽस्मान् द्वेष्टि यं वयं
द्विष्मस्तं वो जम्भे दध्मः॥12
उपस्थानम्
ॐ उद्वयं तमसस्परिस्वः पश्यंत उत्तरम्।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्॥13
उदुत्यं जातवेदसं देवं वहन्ति केतवः।
दृशे विश्वाय सूर्यम्॥14
चित्रं देवानामुदगादनीकम्
चक्षुर्मित्रस्य वरुणस्याग्नेः।
आप्रा द्यावापृथिवी अन्तरिक्षं
सूर्यात्मा जगतस्तस्थुशश्च स्वाहा॥ 15
तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ।
पश्येम शरदः शतं
जीवेम शरदः शतं
श्रृणुयाम शरदः शतं
प्रब्रवाम शरदः शतं
अदीनाः स्याम शरदः शतं
भूयश्चा शरदः शतात् ॥16
ब्रह्म गायत्री सावित्री गुरुः मंत्रः
ॐ भूर्भुवः स्वः।
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि
धियो यो नः प्रचोदयात् ॥17
समर्पणम्
हे ईश्वर दयानिधे।
भवत्कृपया अनेन जपोपासनादिकर्मणा
धर्मार्थकाममोक्षाणां सद्यः सिद्धिर्भवेन्नः।
नमस्कारम्
ॐ नमः शंभवाय च
मयोभवाय च नमः शङ्कराय च
मयस्कराय च।
नमः शिवाय च
शिवतराय च॥ 18
ॐ शान्तिः शान्तिः शान्तिः
- यजुर्वेद ३६.३
- ऋग्वेद १०.९.४ यजुर्वेद ३६.१२ सामवेद १.३३ अथर्ववेद १.६.१ The गरुड़ पुराण १.२१८.९ also includes this mantra
- तैत्तिरीय आरण्यक १०.२७
- ऋग्वेद १०.१९०.१
- ऋग्वेद १०.१९०.२
- ऋग्वेद १०.१९०.३
- अथर्ववेद ३.२७.१
- अथर्ववेद ३.२७.२
- अथर्ववेद ३.२७.३
- अथर्ववेद ३.२७.४
- अथर्ववेद ३.२७.५
- अथर्ववेद ३.२७.६
- यजुर्वेद ३३.१४
- यजुर्वेद ३३.३१
- यजुर्वेद ७.४२
- यजुर्वेद ३६.२४
- यजुर्वेद ३६.३
- यजुर्वेद १६.१४