पवमानाहुतिः
ओं भूर्भुवः स्वः।
अग्न आयूंषि पवस आसुवोर्जमिषं च नः।
आरे बाधस्व दुच्छुनां स्वाहा।
इदमग्नये पवमानाय इदन्न मम।
ओं भूर्भुवः स्वः।
अग्निऋषिः पवमानः पञ्चजन्यः पुरोहितः।
तमीमहे महागयं स्वाहा।
इदमग्नये पवमानाय इदन्न मम।
ओं भूर्भुवः स्वः।
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम्।
दधद् रयिं मयि पोषं स्वाहा।
इदमग्नये पवमानाय इदन्न मम।
ओं भूर्भुवः स्वः।
प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिताबभूव।
यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयिणाम् स्वाहा।
इदमग्नये प्रजापतये इदन्न मम।
Discover more from
Subscribe to get the latest posts sent to your email.
