Havan in Sanskrit

अष्टाग्ाहुतयः

ओं त्वन्नो अग्ने वरुणस्य विद्वानदेवस्य हेळोऽवयासिसीष्ठाः
यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्यसमत् स्वाहा
इदमग्नीवरुणाभ्याम् इदन्न मम

ओं त्वन्नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ
अव यक्ष्व नो वरुणं रराणो वीहि मृडीकं सुहवो एधि स्वाहा
इदमग्नीवरुणाभ्याम् इदन्न मम

ओम् इमं मे वरुण श्रुधी हवमद्या मृडयत्वामवस्युराचके स्वाहा
इदं वरुणाय इदन्न मम

ओं तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः
अहेडमानो वरुणेह बोध्युरुशंस मा आयुः प्रमोषीः स्वाहा
इदं वरुणाय इदन्न मम

ओं ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः
तेभिर्नो अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा
इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यः इदन्न मम

ओं अयाश्चाग्नेस्यनभिशस्तिपाश्च सत्यमित्त्वमयासि।
अया नो यज्ञं वहास्याया नो धेहि भेषजं स्वाहा
इदमग्नये अयसे इदन्न मम

ओम् उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय
अथा वयमादित्य व्रते तवानागसो आदितये स्याम स्वाहा
इदं वरुणायाऽदित्यायाऽदित्ये इदन्न मम

ओं भवतं नः समनसौ सचेतसावरेपसौ
मा यज्ञं हिमंशिष्टं मा यज्ञपतिं जातवेदसौ
शिवौ भवतमद्य नः स्वाहा
इदं जातवेदोभ्याम् इदन्न मम


Discover more from

Subscribe to get the latest posts sent to your email.