अग्न्याधानम्
ओं भूर्भुवः स्वः॥
ओं भूर्भुवः स्वर्द्यौरेव भूम्ना पृथिवीव वरिम्णा।
तस्यास्ते पृथिवि देवयजनि पृष्ठेऽग्निमन्नदमन्नाद्यायादधे॥
ओम् उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते संसृजेथामयं च।
अस्मिन्त्सधस्थे अध्युत्तरस्मिन् विश्वे देवा यजमानश्च सीदत॥
समिन्धनम्
ओम् अयंत् इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेद्ध वर्धय
चास्मान् प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा॥
इदमग्नये जातवेदसे इदन्न मम॥
ओं समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम्।
आस्मिन् हव्य जुहोतन स्वाहा॥
इदमग्नये इदन्न मम॥
सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन।
अग्नये जातवेदसे स्वाहा॥
इदमग्नये जातवेदसे इदन्न मम॥
तन्त्वा समिद्भिरङ्गिरो घृतेन वर्द्धयामसि।
बृहच्छोचा यविष्ठ्य स्वाहा॥
इदमग्नयेऽङ्गिरसे इदन्न मम॥
पञ्चहुतयः
ओम् अयंत् इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेद्ध वर्धय
चास्मान् प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा॥
इदमग्नये जातवेदसे इदन्न मम॥
Discover more from
Subscribe to get the latest posts sent to your email.
