Havan in Sanskrit

स्वस्तिवचनम्1

अग्निमीडे पुरोहितं यज्यस्य देवमृत्विजम्होतारं रत्नधातमम्

नः पितेव सूनवेऽग्ने सूपायनो भवसचस्वा नः स्वस्तये

स्वस्ति नो मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणः
स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना

स्वस्तये वायुमुप ब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः
बृहस्पतिसर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः

विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये
देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः

स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति
स्वस्ति इन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि

स्वस्ति पन्थामनु चरेम सूर्याचन्द्रमसाविव
पुनर्ददताघ्नता जानता संगमेमहि

  1. These are the 7 mantras that are commonly chanted. The complete Svasti Vaachanam of 31 mantras can be found here.

Discover more from

Subscribe to get the latest posts sent to your email.